|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.37. अध्यायः 037
Mahabharata - Virata Parva - Chapter Topics
दुर्योधनेन भीष्मद्रोणादिभिः सह विराटनगरमेत्य उत्तरभागे गवां ग्रहणम् ॥ 1 ॥ गोपालेन केनचित्पुरमेत्योत्तरंप्रति कुरुभिर्गोग्रहणस्य निवेदनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-37-0x(3144)(29912)
याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति।
दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ॥ 1॥ 4-37-1(29913)
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् ।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ॥ 2 ॥ 4-37-2(29914)
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ॥ 3 ॥ 4-37-3(29915)
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः ।
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ 4 ॥ 4-37-4(29916)
गवां शतसहस्राणि कुरवः कालयन्ति च ।
महता रथवंशेन परिगृह्य समन्ततः ॥ 5 ॥ 4-37-5(29917)
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत्संप्रहारे भयंकरे ॥ 6 ॥ 4-37-6(29918)
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः।
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ॥ 7 ॥ 4-37-7(29919)
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः।
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥ 8 ॥ 4-37-8(29920)
दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् ।
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ 9 ॥ 4-37-9(29921)
गवां शतसहस्राणि कुरबः कालयन्ति ते।
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ॥ 10 ॥ 4-37-10(29922)
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ 11 ॥ 4-37-11(29923)
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ 12 ॥ 4-37-12(29924)
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः।
समर्थः समरे योद्धुं कौरवैः सह तादृशै ॥ 13 ॥ 4-37-13(29925)
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ।
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ॥ 14 ॥ 4-37-14(29926)
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा।
निर्दर्हषामनीकानि भीमेन शरतेजसा ॥ 15 ॥ 4-37-15(29927)
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ 16 ॥ 4-37-16(29928)
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ 17 ॥ 4-37-17(29929)
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते ।
श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ॥ 18 ॥ 4-37-18(29930)
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया।
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ॥ 19 ॥ 4-37-19(29931)
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ॥ 20 ॥ 4-37-20(29932)
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ 21 ॥ 4-37-21(29933)
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः ।
एवमेव गतिर्नूनं भवान्विपयवासिनाम् ॥ 22 ॥ ॥ 4-37-22(29934)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-37-17 पाशोपधानां पाशौ मौर्वीप्रान्तद्वयगतौ तावेव उपाधाने वीणायां तन्त्रीसंधानार्थं कीलविशेषौ यस्यां सा ताम्। शरवर्णां शरास्ततो निःसरन्तस्त एव वर्णाः शब्दवत्त्वसामान्यात्स्वरस्पर्शादयो यस्याम् ॥ 17 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|