(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.37. अध्यायः 037
Mahabharata - Virata Parva - Chapter Topics
दुर्योधनेन भीष्मद्रोणादिभिः सह विराटनगरमेत्य उत्तरभागे गवां ग्रहणम् ॥ 1 ॥ गोपालेन केनचित्पुरमेत्योत्तरंप्रति कुरुभिर्गोग्रहणस्य निवेदनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-37-0x(3144)(29912)
याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति।
दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ॥ 1॥ 4-37-1(29913)
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् ।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ॥ 2 ॥ 4-37-2(29914)
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ॥ 3 ॥ 4-37-3(29915)
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः ।
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ 4 ॥ 4-37-4(29916)
गवां शतसहस्राणि कुरवः कालयन्ति च ।
महता रथवंशेन परिगृह्य समन्ततः ॥ 5 ॥ 4-37-5(29917)
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत्संप्रहारे भयंकरे ॥ 6 ॥ 4-37-6(29918)
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः।
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ॥ 7 ॥ 4-37-7(29919)
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः।
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥ 8 ॥ 4-37-8(29920)
दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् ।
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ 9 ॥ 4-37-9(29921)
गवां शतसहस्राणि कुरबः कालयन्ति ते।
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ॥ 10 ॥ 4-37-10(29922)
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ 11 ॥ 4-37-11(29923)
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ 12 ॥ 4-37-12(29924)
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः।
समर्थः समरे योद्धुं कौरवैः सह तादृशै ॥ 13 ॥ 4-37-13(29925)
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ।
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ॥ 14 ॥ 4-37-14(29926)
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा।
निर्दर्हषामनीकानि भीमेन शरतेजसा ॥ 15 ॥ 4-37-15(29927)
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ 16 ॥ 4-37-16(29928)
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ 17 ॥ 4-37-17(29929)
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते ।
श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ॥ 18 ॥ 4-37-18(29930)
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया।
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ॥ 19 ॥ 4-37-19(29931)
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ॥ 20 ॥ 4-37-20(29932)
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ 21 ॥ 4-37-21(29933)
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः ।
एवमेव गतिर्नूनं भवान्विपयवासिनाम् ॥ 22 ॥ ॥ 4-37-22(29934)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-37-17 पाशोपधानां पाशौ मौर्वीप्रान्तद्वयगतौ तावेव उपाधाने वीणायां तन्त्रीसंधानार्थं कीलविशेषौ यस्यां सा ताम्। शरवर्णां शरास्ततो निःसरन्तस्त एव वर्णाः शब्दवत्त्वसामान्यात्स्वरस्पर्शादयो यस्याम् ॥ 17 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.